सौरमण्डलस्य वैशिष्ट्यपूर्णः ग्रहः – पृथिवी
Author(s): गिरीशभट्टः बि
Abstract: अस्माकं सौरमण्डले क्रमशः बुधः, शुक्रः, भूमिः, कुजः, गुरुः, शनिः, युरेनस्, नेप्चून्, प्लूटो इत्येते नवग्रहाः सूर्यं परितः स्वकीयदीर्घवर्तुलाकारकक्षासु परिभ्रमणं कुर्वन्तः सन्ति । तेषु सर्वेषु ग्रहेषु जीविनां वासार्थं योग्यः ग्रहः भवति अस्माकं पृथिवी अथवा भूमिः एव । इयं पृथिवी सौरमण्डलस्य तृतीयः ग्रहः वर्तते । सर्वविधजीविनां वासार्थं योग्यं वातावरणम् अस्यां पृथिव्यामेव वर्तते । जीविनां वासार्थं यथा सौकर्यं स्यात् तथा भूवातावरणे बाष्पाणां संयोजनमस्ति । सौरमण्डलस्य अन्यस्मिन् कस्मिन्नपि ग्रहे जीविनां वासार्थं योग्यं वातावरणं नास्त्येव । अत एव अस्माकम् इयं पृथिवी सौरमण्डलस्य सर्वेषु ग्रहेषु अत्यन्तं वैशिष्ट्यपूर्णः ग्रहः वर्तते । वैज्ञानिकदृष्ट्या अस्याः भूमेः कानि कानि वैशिष्ट्यानि सन्तीति अस्मिन् शोधपत्त्रे सङ्क्षेपेण विमृश्यते।
Pages: 17-25 | Views: 509 | Downloads: 224Download Full Article: Click Here
How to cite this article:
गिरीशभट्टः बि. सौरमण्डलस्य वैशिष्ट्यपूर्णः ग्रहः – पृथिवी. Int J Multidiscip Trends 2023;5(12):17-25.